तद्विप्रासो विपन्युवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम्
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या अधि सानवि
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे नरे च दक्षिणावते देवाय सदनासदे
तं सखायः पुरूरुचं यूयं वयं च सूरयः अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम्
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण यो देवान्विश्वां इत्परि मदेन सह गच्छति
कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः एवा हि वीर स्तवते सदावृधः
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् उदानंश शवसा न भन्दना
तं वो वाजानां पतिमहूमहि श्रवस्यवः अप्रायुभिर्ज्ञेभिर्वावृधेन्यम्
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे देवत्रा हव्यमूहिषे
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम्
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे
स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः
वयमेनमिदा ह्यो ऽपीपेमेह वज्रिणम् तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः तद्वां चेति प्र वीर्यम्
इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ऋतस्य पथ्या अनु
इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयांसि च युवोरप्तूर्यं हितम्
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः
दाना मृगो न वारणः पुरुत्रा चरथं दधे न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्
पवमाना असृक्षत सोमाः शुक्रास इन्दवः अभि विश्वानि काव्या
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत पृथिव्या अधि सानवि
पवमानास आशवः शुभ्रा असृग्रमिन्दवः घ्नन्तो विश्वा अप द्विषः
तोशा वृत्रहणा हुवे सजित्वानापराजिता इन्द्राग्नी वाजसातमा