ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् इन्द्रश्चर्मेव रोदसी
सुमन्मा वस्वी रन्ती सूनरी
सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि ताविमा उप सर्पतः
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्
आष्टम द्वितीयो ऽर्धः पन्यंपन्यमित्सोतार आ धावत मद्याय सोमं वीराय शूराय
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् इन्द्रं गीर्भिर्गिर्वणसम्
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् नि यमते शतमूतिः
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः न त्वामिन्द्राति रिच्यते
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे य इन्द्र जठरेषु ते
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् अरं धामभ्य इन्दवः
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय स्तोमं रुद्राय दृशीकम्
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः धिये वाजाय हिन्वतु
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः उक्थैरग्निर्बृहद्भानुः
तद्वो गाय सुते सचा पुरुहूताय सत्वने शं यद्गवे न शाकिने
न घा वसुर्नि यमते दानं वाजस्य गोमतः यत्सीमुपश्रवद्गिरः
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् शचीभिरप नो वरत्
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् समूढमस्य पांसुले
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः अतो धर्माणि धारयन्
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम्
तद्विप्रासो विपन्युवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम्
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या अधि सानवि
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे नरे च दक्षिणावते देवाय सदनासदे
तं सखायः पुरूरुचं यूयं वयं च सूरयः अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम्
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण यो देवान्विश्वां इत्परि मदेन सह गच्छति
कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति