त्वं नश्चित्र ऊत्या वसो राधांसि चोदय अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः अग्ने हेडांसि दैव्या युयोधि नो ऽदेवानि हरांसि च
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु आ याहि सोमपीतये स्पार्हो देव नियुत्वता
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक्
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती नियुत्वन्ता न ऊतय आ यातं सोमपीतये
अध क्षपा परिष्कृतो वाजां अभि प्र गाहते यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे
तमस्य मर्जयामसि मदो य इन्द्रपातमः यं गाव आसभिर्दधुः पुरा नूनं च सूरयः
तं गाथया पुराण्या पुनानमभ्यनूषत उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः सम्राजन्तमध्वराणाम्
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः मीढ्वां अस्माकं बभूयात्
स नो दूराच्चासाच्च नि मर्त्यादघायोः पाहि सदमिद्विश्वायुः
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि
यज्ञ व्यवर्तयत् चक्राण ओपशं दिवि
व्यान्तरिक्षमतिरन्मदे सोमस्य रोचना इन्द्रो यदभिनद्वलम्
उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः अर्वाञ्चं नुनुदे वलम्
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् आ च्यावयस्यूतये
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् नरमवार्यक्रतुम्
शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम अवा नः पार्ये धने
तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् वज्रं शिशाति धिषणा वरेण्यम्
तव द्यौरिन्द्र पौंस्यं पृथिवी श्रवः त्वामापः पर्वतासश्च हिन्विरे
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः त्वां शर्धो मदत्यनु मारुतम्
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः अमैरमित्रमर्दय
कुवित्सु नो गविष्टये ऽग्ने संवेषिषो रयिम् उरुकृदुरु णस्कृधि
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा संवर्गं सं रयिं जय
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः समुद्रायेव सिन्धवः
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना वज्रेण शतपर्वणा