अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु अवटस्य विसर्जने
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् नीचीनबारमक्षितम्
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्
सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब
इमा उ त्वा पुरूवसो गिरो या मम पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः
तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे स्वानास इन्दवः
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव शुचिं च वर्णमधि गोषु धार्य
स नो हरीणां पत इन्दो देवप्सरस्तमः सखेव सख्ये नर्यो रुचे भव
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् साह्वां इन्दो परि बाधो अप द्वयुम्
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते सिन्धोरु ऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः
आष्टम प्रथमो ऽर्धः विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः चनो घाः सहसा यहो
यच्चिद्धि शश्वा तना देवंदेवं यजामहे त्वे इद्धूयते हविः
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः प्रियाः स्वग्नयो वयम्
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः अस्माकमस्तु केवलः
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि अस्मभ्यमप्रतिष्कुतः
बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ईशानो अप्रतिष्कुतः
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः अग्ने हेडांसि दैव्या युयोधि नो ऽदेवानि हरांसि च
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु आ याहि सोमपीतये स्पार्हो देव नियुत्वता
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक्
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती नियुत्वन्ता न ऊतय आ यातं सोमपीतये
अध क्षपा परिष्कृतो वाजां अभि प्र गाहते यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे
तमस्य मर्जयामसि मदो य इन्द्रपातमः यं गाव आसभिर्दधुः पुरा नूनं च सूरयः