त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे
यो विश्वा दयते वसु होता मन्द्रो जनानाम् मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये
अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम्
इमं मे वरुण श्रुधी हवमद्या च मृडय त्वामवस्युरा चके
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् कया स्तोतृभ्य आ भर
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वां स्वा हि ते मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः
प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयत वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता
त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे परावतो न साम तद्यत्रा रणन्ति धीतयः त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे उत नो गोषणिं धियमश्वसां वाजसामुत नृवत्कृणुह्यूतये
शशमानस्य वा नरः स्वेदस्य सत्यशवसः विदा कामस्य वेनतः
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये सुमृडीका भवन्तु नः
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे शुची उप प्रशस्तये
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ऊह्याथे सनादृतम्
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् परि यज्ञं नि षेदथुः
अयमु ते समतसि कपोत इव गर्भधिम् वचस्तच्चिन्न ओहसे
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते विभूतिरस्तु सूनृता
ऊर्ध्वस्तिष्ठा न ऊतये ऽस्मिन्वाजे शतक्रतो समन्येषु ब्रवावहै
गाव उप वदावटे महि यज्ञस्य रप्सुदा उभा कर्णा हिरण्यया
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु अवटस्य विसर्जने
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् नीचीनबारमक्षितम्
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्
सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब
इमा उ त्वा पुरूवसो गिरो या मम पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः
तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे स्वानास इन्दवः
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव शुचिं च वर्णमधि गोषु धार्य
स नो हरीणां पत इन्दो देवप्सरस्तमः सखेव सख्ये नर्यो रुचे भव