अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ऊर्जो नपातं घृतकेशमीमहे ऽग्निं यज्ञेषु पूर्व्यम्
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् तूर्णी रथः सदा नवः
अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः क्षयं पावकशोचिषः
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः अग्निस्तुविश्रवस्तमः
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः भद्रा उत प्रशस्तयः
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः अव स्थिरा तनुहि भूरि वनेमा ते अभिष्टये
अग्ने वाजस्य गोमत ईशानः सहसो यहो अस्मे देहि जातवेदो महि श्रवः
स इधानो वसुष्कविरग्निरीडेन्यो गिरा रेवदस्मभ्यं पुर्वणीक दीदिहि
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः स तिग्मजम्भ रक्षसो दह प्रति
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् प्रशंसन्ति प्रशस्तिभिः
पन्यांसं जातवेदसं यो देवतात्युद्यता हव्यान्यैरयद्दिवि
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम्
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्. देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे यत्ते धीतिं सुमतिमावृणीमहे ऽध स्मा नस्त्रिवरूथः शिवो भव
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः वायोरनीके अस्थिरन्
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् आपश्चिन्नि दधा पदम्
पदं देवस्य मीढुषो ऽनाधृष्टाभिरूतिभिः भद्रा सूर्य इवोपदृक्
सप्तम तृतीयो ऽर्धः अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि अद्या तमस्य महिमानमायवो ऽनु ष्टुवन्ति पूर्वथा
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः इन्द्राग्नी इष आ वृणे
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् साकमेकेन कर्मणा
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ऋतस्य पथ्या ऽ ऽ अनु
इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च युवोरप्तूर्यं हितम्
शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर
त्वं ह्येहि चेरवे विदा भगं वसुत्तये उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये