तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् देवां आ वीतये वह
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि विश्वासु धीषु वन्द्य
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् विश्वासु पृत्सु दुष्टरम्
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् मार्डीकं धेहि जीवसे
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु तेन जेष्म धनंधनम्
यया गा आकरामहै सेनयाग्ने तवोत्या तां नो हिन्व मघत्तये
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् अङ्धि खं वर्त्तया पविम्
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि दधज्ज्योतिर्जनेभ्यः
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् बोधा स्तोत्रे वयो दधत्
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वति
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः स्तोता स्यां तव शर्मणि
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयः
सप्तम द्वितीयो ऽर्धः कस्ते जामिर्जनानामग्ने को दाश्वध्वरः को ह कस्मिन्नसि श्रितः
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः सखा सखिभ्य ईड्यः
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् अग्ने यक्षि स्वं दमम्
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः समग्निरिध्यते वृषा
वृषो अग्निः समिध्यते ऽश्वो न देववाहनः तं हविष्मन्त ईडते
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि अग्ने दीद्यतं बृहत्
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः अग्ने शुक्रास ईरते
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत अग्ने हव्या जुषस्व नः
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् अग्निमीडे स उ श्रवत्
पाहि नो अग्न एकया पाह्यूत द्वितीयया पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन्
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् वराय देव मन्यवे
दाशेम कस्य मनसा यज्ञस्य सहसो यहो कदु वोच इदं नमः
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः वाजद्रविणसो गिरः