नदं व ओदतीनां नदं योयुवतीनाम् पतिं वो अघ्न्यानां धेनूनामिषुध्यसि
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः उपोषु जातमार्यस्य नक्षन्तु नो गिरः
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम्
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागयम्
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिं मयि योषम्
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया आ देवान्वक्षि यक्षि च
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् देवां आ वीतये वह
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि विश्वासु धीषु वन्द्य
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् विश्वासु पृत्सु दुष्टरम्
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् मार्डीकं धेहि जीवसे
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु तेन जेष्म धनंधनम्
यया गा आकरामहै सेनयाग्ने तवोत्या तां नो हिन्व मघत्तये
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् अङ्धि खं वर्त्तया पविम्
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि दधज्ज्योतिर्जनेभ्यः
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् बोधा स्तोत्रे वयो दधत्
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वति
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः स्तोता स्यां तव शर्मणि
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयः
सप्तम द्वितीयो ऽर्धः कस्ते जामिर्जनानामग्ने को दाश्वध्वरः को ह कस्मिन्नसि श्रितः
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः सखा सखिभ्य ईड्यः
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् अग्ने यक्षि स्वं दमम्
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः समग्निरिध्यते वृषा
वृषो अग्निः समिध्यते ऽश्वो न देववाहनः तं हविष्मन्त ईडते
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि अग्ने दीद्यतं बृहत्
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः अग्ने शुक्रास ईरते