ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः सुष्टुतः
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ये देवत्रा य आयुषु तेभिर्नो महया गिरः
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च त्वं नो देवतातये रायो दानाय चोदय
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः स त्वं नो वीर वीर्याय चोदय
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् शर्याभिर्न भरमाणो गभस्त्योः
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः सदासरो वाजमच्छा सनिष्यदत्
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु प्र राधांसि चोदयते महित्वना
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम् नूनं श्रुधि स्तुवतो अश्व्यस्य
न ह्याङ्ग पुरा च न जज्ञे वीरतरस्त्वत् न की राया नैवथा न भन्दना
नदं व ओदतीनां नदं योयुवतीनाम् पतिं वो अघ्न्यानां धेनूनामिषुध्यसि
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः उपोषु जातमार्यस्य नक्षन्तु नो गिरः
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम्
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागयम्
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिं मयि योषम्
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया आ देवान्वक्षि यक्षि च
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् देवां आ वीतये वह
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि विश्वासु धीषु वन्द्य
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् विश्वासु पृत्सु दुष्टरम्
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् मार्डीकं धेहि जीवसे
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु तेन जेष्म धनंधनम्
यया गा आकरामहै सेनयाग्ने तवोत्या तां नो हिन्व मघत्तये
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् अङ्धि खं वर्त्तया पविम्
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि दधज्ज्योतिर्जनेभ्यः
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् बोधा स्तोत्रे वयो दधत्