इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे अच्छावभृथमोजसा
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह अहं सूर्य इवाजनि
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः क्षुमन्तो याभिर्मदेम
सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् देवत्रा रथ्योर्हिता
पान्तमा वो अन्धस इन्द्रमभि प्र गायत विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम्
प्र व इन्द्राय मादनं हर्यश्वाय गायत सखायः सोमपाव्ने
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः कण्वा उक्थेभिर्जरन्ते
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः अर्कमर्चन्तु कारवः
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि एहीमस्य द्रवा पिब
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे जुहूमसि द्यविद्यवि
अभि त्वा वृषभा सुते सुतं सृजामि पीतये तृम्पा व्यश्नुही मदम्
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः पिबेदस्य त्वमीशिषे
योगेयोगे तवस्तरं वाजेवाजे हवामहे सखाय इन्द्रमूतये
आ त्वेता नि षीदतेन्द्रमभि प्र गायत सखायः स्तोमवाहसः
इदं ह्यन्वोजसा सुतं राधानां पते पिबा त्वास्य गिर्वणः
महां इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे द्यौर्न प्रथिना शवः
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय महाहस्ती दक्षिणेन
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे सूनुं सत्यस्य सत्पतिम्
कया नश्चित्र आ भुवदूती सदावृधः सखा कया शचिष्ठया वृता
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् आ च्यावयस्यूतये
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् सनिं मेधामयासिषम्
ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः उत श्रोषन्तु नो भुवः
भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो यदिन्द्र मृडयासि नः
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः उत स्वराजो अश्विना
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते वन्वानासः सुवीर्यम्
न कि देवा इनीमसि न क्या योपयामसि मन्त्रश्रुत्यं चरामसि
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण स्तुहि देवं सवितारम्
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः स्तुषे वामश्विना बृहत्
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः जघान नवतीर्नव
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः महां अभिष्टिरोजसा