आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत इन्द्रमभि जायमानं समस्वरन्
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत दिवो न वारं सविता व्यूर्णुते
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना यूथे न निष्ठा वृषभो वि राजसि
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् अग्ने देवेषु प्र वोचः
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ सद्यो दाशुषे क्षरसि
आ नो भज परमेष्वा वाजेषु मध्यमेषु शिक्षा वस्वो अन्तमस्य
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह अहं सूर्य इवाजनि
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् येनेन्द्रः शुष्ममिद्दधे
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः सुष्टुतः
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ये देवत्रा य आयुषु तेभिर्नो महया गिरः
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च त्वं नो देवतातये रायो दानाय चोदय
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः स त्वं नो वीर वीर्याय चोदय
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् शर्याभिर्न भरमाणो गभस्त्योः
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः सदासरो वाजमच्छा सनिष्यदत्
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु प्र राधांसि चोदयते महित्वना
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम् नूनं श्रुधि स्तुवतो अश्व्यस्य
न ह्याङ्ग पुरा च न जज्ञे वीरतरस्त्वत् न की राया नैवथा न भन्दना
नदं व ओदतीनां नदं योयुवतीनाम् पतिं वो अघ्न्यानां धेनूनामिषुध्यसि
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः उपोषु जातमार्यस्य नक्षन्तु नो गिरः
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम्
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागयम्
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिं मयि योषम्
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया आ देवान्वक्षि यक्षि च