तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः
अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः आरे बाधस्व दुच्छुनाम्
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य महि वा क्षत्रं देवेषु
ऋतमृतेन सपन्तेषिरं दक्षमाशाते अद्रुहा देवौ वर्धेते
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः बृहन्तं गर्त्तमाशाते
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः रोचन्ते रोचना दिवि
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे शोणा धृष्णू नृवाहसा
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे समुषद्भिरजायथाः
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्
स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः
त्वमग्ने यज्ञानां होता विश्वेषां हितः देवेभिर्मानुषे जने
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः आ देवान्वक्षि यक्षि च
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा अग्ने यज्ञेषु सुक्रतो
होता देवो अमर्त्यः पुरस्तादेति मायया विदथानि प्रचोदयन्
वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते विप्रो यज्ञस्य साधनः
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे दक्षस्य पितरं तना
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् रसा दधीत वृषभम्
ते जानत स्वमोक्यां सं वत्सासो न मातृभिः मिथो नसन्त जामिभिः
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि इन्द्रे अग्ना नमः स्वः
तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्
अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्
सप्तम प्रथमो ऽर्धः अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे मूनुं सत्यस्य सत्पतिम्
आ हरयः ससृज्रिरे ऽरुषीरधि बर्हिषि यत्राभि संनवामहे
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु यत्सीमुपह्वरे विदत्