यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते
अस्माअस्मा इदन्धसो ऽध्वर्यो प्र भरा सुतम् कुवित्समस्य जेन्यस्य ऽभिशस्तेरवस्वरत्
बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे सोमाय गाथमर्चत
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन मधावा धावता मधु
नमसेदुप सीदत दध्नेदभि श्रीणीतन इन्दुमिन्द्रे दधातन
अमित्रहा विचर्षणिः पवस्व सोम शं गवे देवेभ्यो अनुकामकृत्
इन्द्राय सोम पातवे मदाय परि षिच्यसे मनश्चिन्मनसस्पतिः
पवमान सुवीर्यं रयिं सोम रिरीहि नः इन्दविन्द्रेण नो युजा
उद्धेदभि श्रुतामघं वृषमं नर्यापसम् अस्तारमेषि सूर्य
नव यो नवतिं पुरो बिभेद बाह्वोजसा अहिं च वृत्रहावधीत्
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् उरुधारेव दोहते
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति
विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम्
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि
मा नो अज्ञाता वृजना दुराध्यो माशिवासो ऽव क्रमुः त्वया वयं प्रवतः शश्वतीरपो ऽति शूर तरामसि
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः विश्वा च नो जरित्र्^ईन्त्सत्पते अहा दिवा नक्तं च रक्षिषः
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः सरस्वन्तं हवामहे
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा सरस्वती स्तोम्या भूत्
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः
अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः आरे बाधस्व दुच्छुनाम्
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य महि वा क्षत्रं देवेषु
ऋतमृतेन सपन्तेषिरं दक्षमाशाते अद्रुहा देवौ वर्धेते
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः बृहन्तं गर्त्तमाशाते
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः रोचन्ते रोचना दिवि
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे शोणा धृष्णू नृवाहसा
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे समुषद्भिरजायथाः
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्