भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे
स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः
ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत
अभि वायुं वीत्यर्षा गृणानो ऽभि मित्रावरुणा पूयमानः अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम्
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम्
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः सहावां इन्द्र सानसिः पृतनषाडमर्त्यः
त्वं हि शूरः सनिता चोदयो मनुषो रथम् सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा
षष्ठ तृतीयो ऽर्धः पवस्व वृष्टिमा सु नो ऽपामूर्मिं दिवस्परि अयक्ष्मा बृहतीरिषः
तया पवस्व धारया यया गाव इहागमन् जन्यास उप नो गृहम्
घृतं पवस्व धारया यज्ञेषु देववीतमः अस्मभ्यं वृष्टिमा पव
स न ऊर्जे व्याव्ययं पवित्रं धाव धारया देवासः शृणवन्हि कम्
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् प्रत्नवद्रोचयन्रुचः
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर अरङ्गमाय जग्मये ऽपश्चादध्वने नरः
एमेनं प्रत्येतन सोमेभिः सोमपातमम् अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते
अस्माअस्मा इदन्धसो ऽध्वर्यो प्र भरा सुतम् कुवित्समस्य जेन्यस्य ऽभिशस्तेरवस्वरत्
बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे सोमाय गाथमर्चत
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन मधावा धावता मधु
नमसेदुप सीदत दध्नेदभि श्रीणीतन इन्दुमिन्द्रे दधातन
अमित्रहा विचर्षणिः पवस्व सोम शं गवे देवेभ्यो अनुकामकृत्
इन्द्राय सोम पातवे मदाय परि षिच्यसे मनश्चिन्मनसस्पतिः
पवमान सुवीर्यं रयिं सोम रिरीहि नः इन्दविन्द्रेण नो युजा
उद्धेदभि श्रुतामघं वृषमं नर्यापसम् अस्तारमेषि सूर्य
नव यो नवतिं पुरो बिभेद बाह्वोजसा अहिं च वृत्रहावधीत्