तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन्
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् अस्य यज्ञस्य सुक्रतुम्
अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषम् स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः स यन्ता शश्वतीरिषः
न किरस्य सहन्त्य पर्येता कयस्य चित् वाजो अस्ति श्रवाय्यः
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता विप्रेभिरस्तु सनिता
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः आपिर्नो बोधि सधमाद्ये वृधे ऽस्मां अवन्तु ते धियः
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे
स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः
ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत
अभि वायुं वीत्यर्षा गृणानो ऽभि मित्रावरुणा पूयमानः अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम्
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम्
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः सहावां इन्द्र सानसिः पृतनषाडमर्त्यः
त्वं हि शूरः सनिता चोदयो मनुषो रथम् सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा
षष्ठ तृतीयो ऽर्धः पवस्व वृष्टिमा सु नो ऽपामूर्मिं दिवस्परि अयक्ष्मा बृहतीरिषः
तया पवस्व धारया यया गाव इहागमन् जन्यास उप नो गृहम्
घृतं पवस्व धारया यज्ञेषु देववीतमः अस्मभ्यं वृष्टिमा पव
स न ऊर्जे व्याव्ययं पवित्रं धाव धारया देवासः शृणवन्हि कम्
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् प्रत्नवद्रोचयन्रुचः
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर अरङ्गमाय जग्मये ऽपश्चादध्वने नरः
एमेनं प्रत्येतन सोमेभिः सोमपातमम् अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः