अ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि च् धनञ्जयो रणेरणे
अ अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः च् अरं वहन्त्याशवः
अ अच्छा नो याह्या वहाभि प्रयांसि वीतये च् आ देवान्त्सोमपीतये
अ उदग्ने भारत द्युमदजस्रेण दविद्युतत् च् शोचा वि भाह्यजर
प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः अप श्वानमराधसं हता मखं न भृगवः
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः सरज्जारो न योषणां वरो न योनिमासदम्
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी हरिः पवित्रे अव्यत वेधा न योनिमासदम्
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि युधेदापित्वमिच्छसे
न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये
आ त्वा रथे हिरण्यये हरी मयूरशेप्या शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये
पिबा त्वास्य गिर्वणः सुतस्य पूर्वपा इव परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् वनप्रक्षमुदप्रुतम्
सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया समिद्धः शुक्र आहुतः
गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे सीदन्नृतस्य योनिमा
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे अग्ने यद्दीदयद्दिवि
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता
भद्रा वस्त्रा समन्या ऽ ऽ वसानो महान्कविर्निवचनानि शंसन् आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः देवस्य द्रविणस्यवः
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा स यक्षद्दैव्यं जनम्
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः त्वया यज्ञं वि तन्वते
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि
शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून्
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी अपः सिषासन्नुषसः स्वार्गाः सं चिक्रदो महो अस्मभ्यं वाजान्
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः