अ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति च् उग्रं तत्पत्यते शव इन्द्रो अङ्ग
अ कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् च् कदा नः शुश्रवद्गिर इन्द्रो अङ्ग
अ गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः च् ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे
अ यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् च् तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति
अ युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा च् अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर
षष्ठ प्रथमो ऽर्धः अ सुषमिद्धो न आ वह देवां अग्ने हविष्मते च् होतः पावक यक्षि च
अ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे च् अद्या कृणुय्हूतये
अ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये च् मधुजिह्वं हविष्कृतम्
अ अग्ने सुखतमे रथे देवां ईडित आ वह च् असि होता मनुर्हितः
अ यदद्य सूर उदिते ऽनागा मित्रो अर्यमा च् सुवाति सविता भगः
अ सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः च् ये नो अंहो ऽतिपिप्रति
अ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये च् महो राजान ईशते
अ उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः च् अव ब्रह्मद्विषो जहि
अ पदा पणीनराधसो नि बाधस्व महां असि च् न हि त्वा कश्च न प्रति
अ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् च् त्वं राजा जनानाम्
अ आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु च् सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः
अ स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः च् प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत्
अ स वर्धिता पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् च् यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन्
अ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत च् इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
अ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् च् विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम्
अ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते च् सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव
अ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत च् इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्
अ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः च् द्विषस्तरध्या ऋणया न ईरसे
अ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः च् गोजीरया रंहमानः पुरन्ध्या
अ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये च् वाजां अभि पवमान प्र गाहसे
अ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय
अ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः
अ इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः
अ सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते च् तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन
अ उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि च् पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति