अ पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय
अ प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय
अ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्
अ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् च् इन्दुं देवा अयासिषुः
अ नो गिरो वत्सं संशिश्वरीरिव च् य इन्द्रस्य हृदंसनिः
अ अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् च् वर्धा समुद्रमुक्थ्यम्
अ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् च् येषामिन्द्रो युवा सखा
अ बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः च् येषामिन्द्रो युवा सखा
अ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः च् येषामिन्द्रो युवा सखा
अ य एक इद्विदयते वसु मर्त्ताय दाशुषे च् ईशानो अप्रतिष्कुत इन्द्रो अङ्ग
अ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति च् उग्रं तत्पत्यते शव इन्द्रो अङ्ग
अ कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् च् कदा नः शुश्रवद्गिर इन्द्रो अङ्ग
अ गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः च् ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे
अ यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् च् तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति
अ युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा च् अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर
षष्ठ प्रथमो ऽर्धः अ सुषमिद्धो न आ वह देवां अग्ने हविष्मते च् होतः पावक यक्षि च
अ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे च् अद्या कृणुय्हूतये
अ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये च् मधुजिह्वं हविष्कृतम्
अ अग्ने सुखतमे रथे देवां ईडित आ वह च् असि होता मनुर्हितः
अ यदद्य सूर उदिते ऽनागा मित्रो अर्यमा च् सुवाति सविता भगः
अ सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः च् ये नो अंहो ऽतिपिप्रति
अ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये च् महो राजान ईशते
अ उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः च् अव ब्रह्मद्विषो जहि
अ पदा पणीनराधसो नि बाधस्व महां असि च् न हि त्वा कश्च न प्रति
अ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् च् त्वं राजा जनानाम्
अ आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु च् सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः
अ स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः च् प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत्
अ स वर्धिता पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् च् यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन्
अ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत च् इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
अ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् च् विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम्