अ पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः च् दधत्स्तोत्रे सुवीर्यम्
अ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः च् दधन्वां यो नर्यो अप्स्वान्तरा सुषाव सोममद्रिभिः
अ नूनं पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः च् सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम्
अ परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः
अ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् च् पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्
अ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे च् स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे
अ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि च् अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम्
अ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत च् वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः
अ अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः च् यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्
अ यत इन्द्र भयामहे ततो नो अभ्यं कृधि च् मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि
अ त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता च् तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे
अ त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे च् पवस्व मंहयद्रयिः
अ त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः च् इन्दुः सत्राजिदस्तृतः
अ त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् च् द्युमन्तं शुष्मा भर
अ पवस्व देववीतय इन्दो धाराभिरोजसा च् आ कलशं मधुमान्त्सोम नः सदः
अ तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः च् त्वां देवासो अमृताय कं पपुः
अ आ नः सुतास इन्दवः पुनाना धावता रयिम् च् वृष्टिद्यावो रीत्यापः स्वर्विदः
अ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण च् यो देवान्विश्वां इत्परि मदेन सह गच्छति
अ द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतम् च् प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः
अ इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे च् नरे च दक्षिणावते वीराय सदनासदे
अ पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय
अ प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय
अ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्
अ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् च् इन्दुं देवा अयासिषुः
अ नो गिरो वत्सं संशिश्वरीरिव च् य इन्द्रस्य हृदंसनिः
अ अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् च् वर्धा समुद्रमुक्थ्यम्
अ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् च् येषामिन्द्रो युवा सखा
अ बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः च् येषामिन्द्रो युवा सखा
अ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः च् येषामिन्द्रो युवा सखा
अ य एक इद्विदयते वसु मर्त्ताय दाशुषे च् ईशानो अप्रतिष्कुत इन्द्रो अङ्ग