अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे तत्राददिष्ट पौंस्यम्
वयमिन्द्र त्वायवो ऽभि प्र नोनुमो वृषन् विद्धी त्वास्य नो वसो
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् येषामिन्द्रो युवा सखा
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः वसु स्पार्हं तदा भर
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् नि यामं चित्रमृञ्जते
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः पुष्टावन्तो यथा पशुम्
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः समुद्रायेव सिन्धवः
देवानामिदवो महत्तदा वृणीमहे वयम् वृष्णामस्मभ्यमूतये
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः शृणोतु शक्र आशिषम्
अद्य नो देव सवितः प्रजावत्सावीः सौभगम् परा दुःष्वप्न्यं सुव
क्वास्य वृषभो युवा तुविग्रीवो अनानतः ब्रह्मा कस्तं सपर्यति
उपह्वरे गिरीणां सङ्गमे च नदीनाम् धिया विप्रो अजायत
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः नरं नृषाहं मंहिष्ठम्
द्वितीय द्वितीयो ऽर्धः अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः इन्द्रोरिन्द्रो यवाशिरः
इमा उ त्वा पुरुवसो ऽभि प्र नोनवुर्गिरः गावो वत्सं न धेनवः
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् इत्था चन्द्रमसो गृहे
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः तत्र पूषाभुवत्सचा
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् युक्ता वह्नी रथानाम्
उप नो हरिभिः सुतं याहि मदानां पते उप नो हरिभिः सुतम्
इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे अच्छावभृथमोजसा
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह अहं सूर्य इवाजनि
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः क्षुमन्तो याभिर्मदेम
सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् देवत्रा रथ्योर्हिता
पान्तमा वो अन्धस इन्द्रमभि प्र गायत विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम्
प्र व इन्द्राय मादनं हर्यश्वाय गायत सखायः सोमपाव्ने
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः कण्वा उक्थेभिर्जरन्ते
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः अर्कमर्चन्तु कारवः
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि एहीमस्य द्रवा पिब
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे जुहूमसि द्यविद्यवि