अ स सुतः पीतये वृषा सोमः पवित्रे अर्षति च् विघ्नन्रक्षांसि देवयुः
अ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः च् अभि योनिं कनिक्रदत्
अ स वाजी रोचना दिवः पवमानो वि धावति च् रक्षोहा वारमव्ययम्
अ स त्रितस्याधि सानवि पवमानो अरोचयत् च् जामिभिः सूर्यं सह
अ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः च् सोमो वाजमिवासरत्
अ स देवः कविनेषितो ऽभि द्रोणानि धावति च् इन्दुरिन्द्राय मंहयन्
अ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् च् सर्वं स पूतमश्नाति स्वदितं मातरिश्वना
अ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् च् तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्
अ पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः च् ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम्
अ पावमानीर्दधन्तु न इमं लोकमथो अमुम् च् नो देवीर्देवैः समाहृताः
अ येन देवाः पवित्रेणात्मानं पुनते सदा च् तेन सहस्रधारेण पावमानीः पुनन्तु नः
अ पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् च् पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति
अ अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे च् चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्
अ स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः च् स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः
अ त्वं वरुण उत मित्रो अग्ने त्वां मतिभिर्वसिष्ठाः च् त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः
अ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव च् स्तोमैर्वत्सस्य वावृधे
अ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् च् जामि ब्रुवत आयुधा
अ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः च् विप्रा ऋतस्य वाहसा
अ पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत च् जीरा अजिरशोचिषः
अ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः च् हरिश्चन्द्रो मरुद्गणः
अ पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः च् दधत्स्तोत्रे सुवीर्यम्
अ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः च् दधन्वां यो नर्यो अप्स्वान्तरा सुषाव सोममद्रिभिः
अ नूनं पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः च् सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम्
अ परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः
अ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् च् पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्
अ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे च् स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे
अ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि च् अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम्
अ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत च् वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः
अ अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः च् यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्
अ यत इन्द्र भयामहे ततो नो अभ्यं कृधि च् मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि