अ एष वसूनि पिब्दनः परुषा ययिवां अति च् अव शादेषु गच्छति
अ एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे च् स्वायुधं मदिन्तमम्
अ एष उ स्य वृषा रथो ऽव्या वारेभिरव्यत च् गच्छन्वाजं सहस्रिणम्
अ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति च् गच्छं जारो न योषितम्
अ एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः च् य इन्दुर्वारमाविशत्
अ एष स्य पीतये सुतो हरिरर्षति धर्णसिः च् क्रन्दन्योनिमभि प्रियम्
अ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः च् याभिर्मदाय शुम्भते
अ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः च् अव्यो वारं वि धावति
अ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः च् विश्वा धामान्याविशन्
अ एष देवः शुभायते ऽधि योनावमर्त्यः च् वृत्रहा देववीतमः
अ एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः च् अभि द्रोणानि धावति
अ एष सूर्यमरोचयत्पवमानो अधि द्यवि च् पवित्रे मत्सरो मदः
अ एष सूर्येण हासते संवसानो विवस्वता च् पतिर्वाचो अदाभ्यः
अ एष कविरभिष्टुतः पवित्रे अधि तोशते च् पुनानो घ्नन्नप द्विषः
अ एष इन्द्राय वायवे स्वर्जित्परि षिच्यते च् पवित्रे दक्षसाधनः
अ एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः च् सोमो वनेषु विश्ववित्
अ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः च् इन्दुः सत्राजिदस्तृतः
अ एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः च् पुनान इन्दुरिन्द्रमा
अ एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति च् देवावीरघशंसहा
अ स सुतः पीतये वृषा सोमः पवित्रे अर्षति च् विघ्नन्रक्षांसि देवयुः
अ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः च् अभि योनिं कनिक्रदत्
अ स वाजी रोचना दिवः पवमानो वि धावति च् रक्षोहा वारमव्ययम्
अ स त्रितस्याधि सानवि पवमानो अरोचयत् च् जामिभिः सूर्यं सह
अ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः च् सोमो वाजमिवासरत्
अ स देवः कविनेषितो ऽभि द्रोणानि धावति च् इन्दुरिन्द्राय मंहयन्
अ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् च् सर्वं स पूतमश्नाति स्वदितं मातरिश्वना
अ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् च् तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्
अ पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः च् ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम्
अ पावमानीर्दधन्तु न इमं लोकमथो अमुम् च् नो देवीर्देवैः समाहृताः