अ इन्द्रमीशानमोजसाभि स्तोमैरनूषत च् सहस्रं यस्य रातय उत वा सन्ति भूयसीः
पञ्चम द्वितीयो ऽर्धः अ अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः च् वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः
अ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः च् मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम
अ महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् च् अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः
अ एष देवो अमर्त्यः पर्णवीरिव दीयते च् अभि द्रोणान्यासदम्
अ एष विप्रैरभिष्टुतो ऽपो देवो वि गाहते च् दधद्रत्नानि दाशुषे
अ एष विश्वानि वार्या शूरो यन्निव सत्वभिः च् पवमानः सिषासति
अ एष देवो रथर्यति पवमानो दिशस्यति च् आविष्कृणोति वग्वनुम्
अ एष देवो विपन्युभिः पवमान ऋतायुभिः च् हरिर्वाजाय मृज्यते
अ एष देवो विपा कृतो ऽति ह्वरांसि धावति च् पवमानो अदाभ्यः
अ एष दिवं वि धावति तिरो रजांसि धारया च् पवमानः कनिक्रदत्
अ एष दिवं व्यासरत्तिरो रजांस्यस्पृतः च् पवमानः स्वध्वरः
अ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः च् हरिः पवित्रे अर्षति
अ एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः च् धारया पवते सुतः
अ एष धिया यात्यण्व्य शूरो रथेभिराशुभिः च् गच्छन्निन्द्रस्य निष्कृतम्
अ एष पुरू धियायते बृहते देवतातये च् यत्रामृतास आशत
अ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः च् प्रचक्राणं महीरिषः
अ एष हितो वि नीयते ऽन्तः शुन्ध्यावता पथा च् यदी तुञ्जन्ति भूर्णयः
अ एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः च् पतिः सिन्धूनां भवन्
अ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा च् नृम्णा दधान ओजसा
अ एष वसूनि पिब्दनः परुषा ययिवां अति च् अव शादेषु गच्छति
अ एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे च् स्वायुधं मदिन्तमम्
अ एष उ स्य वृषा रथो ऽव्या वारेभिरव्यत च् गच्छन्वाजं सहस्रिणम्
अ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति च् गच्छं जारो न योषितम्
अ एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः च् य इन्दुर्वारमाविशत्
अ एष स्य पीतये सुतो हरिरर्षति धर्णसिः च् क्रन्दन्योनिमभि प्रियम्
अ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः च् याभिर्मदाय शुम्भते
अ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः च् अव्यो वारं वि धावति
अ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः च् विश्वा धामान्याविशन्