अ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे च् स वृषा वृषभो भुवत्
अ इन्द्रः स दामने कृत ओजिष्ठः स बले हितः च् द्युम्नी श्लोकी स सोम्यः
अ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः च् ववक्ष उग्रो अस्तृतः
अ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय च् पुनाहीन्द्राय पातवे
अ तव त्य इन्दो अन्धसो देवा मधोर्व्याशत च् पवमानस्य मरुतः
अ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे च् सुनोता मधुमत्तमम्
अ धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः च् हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा
अ शूरो न धत्त आयुधा गभस्त्योः स्वाः सिषासन्रथिरो गविष्टिषु च् इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः
अ इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश च् प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः
अ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः च् सिमा पुरू नृषूतो अस्यानवे ऽसि तुर्वशे
अ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा च् कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि
अ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः च् सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत्
अ तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः च् उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः
अ पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः च् वायुमा रोह धर्मणा
अ पवमान नि तोशसे रयिं सोम श्रवाय्यम् च् इन्दो समुद्रमा विश
अ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः च् नुदस्वादेवयुं जनम्
अ अभी नो वाजसातमं रयिमर्ष शतस्पृहम् च् इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम्
अ वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः च् नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो
अ परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः च् धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः
अ पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम
अ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः
अ दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व
अ प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम् च् अग्ने रथं न वेद्यम्
अ कविमिव प्रशंस्यं यं देवास इति द्विता च् नि मर्त्येष्वादधुः
अ त्वं यविष्ठ दाशुषो न्र्^ईंपाहि शृणुही गिरः च् रक्षा तोकमुत त्मना
अ एन्द्र नो गधि प्रिय सत्राजिदगोह्य च् गिरिर्न विश्वतः पृथुः पतिर्दिवः
अ अभि हि सत्य सोमपा उभे बभूथ रोदसी च् इन्द्रासि सुन्वतो वृधः पतिर्दिवः
अ त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि च् हन्ता दस्योर्मनोर्वृधः पतिर्दिवः
अ पुरां भिन्दुर्युवा कविरमितौजा अजायत च् इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः
अ त्वं वलस्य गोमतो ऽपावरद्रिवो बिलम् च् त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः