अ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् च् सुवाना देवास इन्दवः
अ वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न मातरः च् दधन्विरे गभस्त्योः
अ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् च् विश्वा अप द्विषो जहि
अ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः च् योनावृतस्य सीदत
अ सोमा असृग्रमिन्दवः सुता ऋतस्य धारया च् इन्द्राय मधुमत्तमाः
अ अभि विप्रा अनूषत गावो वत्सं न धेनवः च् इन्द्रं सोमस्य पीतये
अ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् च् सोमो गौरी अधि श्रितः
अ दिवो नाभा विचक्षणो ऽव्यो वारे महीयते च् सोमो यः सुक्रतुः कविः
अ यः सोमः कलशेष्वा अन्तः पवित्र आहितः च् तमिन्दुः परि षस्वजे
अ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि च् जिन्वन्कोशं मधुश्चुतम्
अ नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् च् हिन्वानो मानुषा युजा
अ आ पवमान धारय रयिं सहस्रवर्चसम् च् अस्मे इन्दो स्वाभुवम्
अ अभि प्रिया दिवः कविर्विप्रः स धारया सुतः च् सोमो हिन्वे परावति
अ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः च् वाणस्य चोदया पविम्
अ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः च् यदव्य एषि सानवि
अ अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः च् पवमानं मधुश्चुतम्
अ आ पवस्व मदिन्तम पवित्रं धारया कवे च् अर्कस्य योनिमासदम्
अ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः च् एन्द्रस्य जठरं विश
अ अया वीती परि स्रव यस्त इन्दो मदेष्वा च् अवाहन्नवतीर्नव
अ पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् च् अध त्यं तुर्वशं यदुम्
च्ल्स्दिर् अ परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् च् क्षरा सहस्रिणीरिषः
अ अपघ्नन्पवते मृधो ऽप सोमो अराव्णः च् गच्छन्निन्द्रस्य निष्कृतम्
अ महो नो राय आ भर पवमान जही मृधः च् रास्वेन्दो वीरवद्यशः
अ न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् च् यत्पुनानो मखस्यसे
अ अया पवस्व धारया यया सूर्यमरोचयः च् हिन्वानो मानुषीरपः
अ अयुक्त सूर एतशं पवमानो मनावधि च् अन्तरिक्षेण यातवे
अ उत त्या हरितो रथे सूरो अयुक्त यातवे च् इन्दुरिन्द्र इति ब्रुवन्
अ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् च् यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः
अ प्रोथदश्वो न यवसे ऽविष्यन्यदा महः संवरणाद्व्यस्थात् च् आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति
अ उद्यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्यजरा इधानाः च् अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्