अ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः च् स गोभिर्वासयामसि
अ पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः च् परि गव्यान्यव्यत
अ मघोन आ पवस्व नो जहि विश्वा अप द्विषः च् इन्दो सखायमा विश
अ नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् च् भक्षीमहि प्रजामिषम्
अ वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि च् सहो नः सोम पृत्सु धाः
अ सोमः पुनानो अर्षति सहस्रधारो अत्यविः च् वायोरिन्द्रस्य निष्कृतम्
अ पवमानमवस्यवो विप्रमभि प्र गायत च् सुष्वाणं देववीतये
अ पवन्ते वाजसातये सोमाः सहस्रपाजसः च् गृणाना देववीतये
अ उत नो वाजसातये पवस्व बृहतीरिषः च् द्युमदिन्दो सुवीर्यम्
अ अत्या हियाना न हेतृभिरसृग्रं वाजसातये च् वि वारमव्यमाशवः
अ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् च् सुवाना देवास इन्दवः
अ वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न मातरः च् दधन्विरे गभस्त्योः
अ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् च् विश्वा अप द्विषो जहि
अ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः च् योनावृतस्य सीदत
अ सोमा असृग्रमिन्दवः सुता ऋतस्य धारया च् इन्द्राय मधुमत्तमाः
अ अभि विप्रा अनूषत गावो वत्सं न धेनवः च् इन्द्रं सोमस्य पीतये
अ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् च् सोमो गौरी अधि श्रितः
अ दिवो नाभा विचक्षणो ऽव्यो वारे महीयते च् सोमो यः सुक्रतुः कविः
अ यः सोमः कलशेष्वा अन्तः पवित्र आहितः च् तमिन्दुः परि षस्वजे
अ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि च् जिन्वन्कोशं मधुश्चुतम्
अ नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् च् हिन्वानो मानुषा युजा
अ आ पवमान धारय रयिं सहस्रवर्चसम् च् अस्मे इन्दो स्वाभुवम्
अ अभि प्रिया दिवः कविर्विप्रः स धारया सुतः च् सोमो हिन्वे परावति
अ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः च् वाणस्य चोदया पविम्
अ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः च् यदव्य एषि सानवि
अ अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः च् पवमानं मधुश्चुतम्
अ आ पवस्व मदिन्तम पवित्रं धारया कवे च् अर्कस्य योनिमासदम्
अ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः च् एन्द्रस्य जठरं विश
अ अया वीती परि स्रव यस्त इन्दो मदेष्वा च् अवाहन्नवतीर्नव
अ पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् च् अध त्यं तुर्वशं यदुम्