अ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् च् मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा
अ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः च् हरिं क्रीडन्तमभ्यनूषत स्तुभो ऽभि धेनवः पयसेदशिश्रयुः
अ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा च् या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम्
अ न किष्टं कर्मणा नशद्यश्चकार सदावृधम् च् इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा
अ अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः च् सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः
अ सखाय आ नि षीदत पुनानाय प्र गायत च् शिशुं न यज्ञैः परि भूषत श्रिये
अ समी वत्सं न मातृभिः सृजता गयसाधनम् च् देवाव्यां मदमभि द्विशवसम्
अ पुनाता दक्षसाधनं यथा शर्धाय वीतये च् यथा मित्राय वरुणाय शन्तमम्
अ प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्
अ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः
अ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः
अ ये सोमासः परावति ये अर्वावति सुन्विरे च् ये वादः शर्यणावति
अ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् च् ये वा जनेषु पञ्चसु
अ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् च् स्वाना देवास इन्दवः
अ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् च् अग्ने त्वां कामये गिरा
अ पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः च् समत्सु त्वा हवामहे
अ समत्स्वग्निमवसे वाजयन्तो हवामहे च् वाजेषु चित्रराधसम्
अ त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे च् आ वीरं पृतनासहम्
अ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ च् अथा ते सुम्नमीमहे
अ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत च् स नो रास्व सुवीर्यम्
अ यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः च् राधस्तन्नो विदद्वस उभयाहस्त्या भर
अ यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर च् विद्याम तस्य ते वयमकूपारस्य दावनः
अ यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् च् तेन दृढा चिदद्रिव आ वाजं दर्षि सातये
पञ्चम प्रथमो ऽर्धः अ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन च् कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन्
अ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् च् तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप्
अ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् च् अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति
अ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् च् अस्य वीर्यम्
अ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना च् ते नो धत्त सुवीर्यम्
अ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय च् देवानां योनिमासदम्
अ मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः च् अनु विप्रा अमादिषुः