अ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त च् वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः
अ प्र वो मित्राय गायत वरुणाय विपा गिरा च् महिक्षत्रावृतं बृहत्
अ सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च च् देवा देवेषु प्रशस्ता
अ ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य च् महि वां क्षत्रं देवेषु
अ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः च् अण्वीभिस्तना पूतासः
अ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः च् उप ब्रह्माणि वाघतः
अ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः च् सुते दधिष्व नश्चनः
अ तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् च् कृष्णा कृणोति जिह्वया
अ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः च् द्युम्नाय सुतरा अपः
अ ता नो वाजवतीरिष आशून्पिपृतमर्वतः च् एन्द्रमग्निं च वोढवे
अ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् च् मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा
अ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः च् हरिं क्रीडन्तमभ्यनूषत स्तुभो ऽभि धेनवः पयसेदशिश्रयुः
अ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा च् या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम्
अ न किष्टं कर्मणा नशद्यश्चकार सदावृधम् च् इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा
अ अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः च् सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः
अ सखाय आ नि षीदत पुनानाय प्र गायत च् शिशुं न यज्ञैः परि भूषत श्रिये
अ समी वत्सं न मातृभिः सृजता गयसाधनम् च् देवाव्यां मदमभि द्विशवसम्
अ पुनाता दक्षसाधनं यथा शर्धाय वीतये च् यथा मित्राय वरुणाय शन्तमम्
अ प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्
अ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः
अ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः
अ ये सोमासः परावति ये अर्वावति सुन्विरे च् ये वादः शर्यणावति
अ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् च् ये वा जनेषु पञ्चसु
अ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् च् स्वाना देवास इन्दवः
अ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् च् अग्ने त्वां कामये गिरा
अ पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः च् समत्सु त्वा हवामहे
अ समत्स्वग्निमवसे वाजयन्तो हवामहे च् वाजेषु चित्रराधसम्
अ त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे च् आ वीरं पृतनासहम्
अ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ च् अथा ते सुम्नमीमहे
अ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत च् स नो रास्व सुवीर्यम्