अ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु
अ आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत्
अ प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते
अ अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः
अ उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र
चतुर्थ द्वितीयो ऽर्धः अ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति च् महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्
अ प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः च् आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम्
अ स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः च् परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः
अ प्र स्वानासो रथा इवार्वन्तो न अवस्यवः च् सोमासो राये अक्रमुः
अ हिन्वानासो रथा इव दधन्विरे गभस्त्योः च् भरासः कारिणामिव
अ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते च् यज्ञो न सप्त धातृभिः
अ परि स्वानास इन्दवो मदाय बर्हणा गिरा च् मधो अर्षन्ति धारया
अ आपानासो विवस्वतो जिन्वन्त उषसो भगम् च् सूरा अण्वं वि तन्वते
अ अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः च् वृष्णो हरस आयवः
अ समीचीनास आशत होतारः सप्तजानयः च् पदमेकस्य पिप्रतः
अ नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे च् कवेरपत्यमा दुहे
अ अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् च् सूरः पस्यति चक्षसा
अ असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः च् विदाना अस्य योजना
अ प्र धारा मधो अग्रियो महीरपो वि गाहते च् हविर्हविःषु वन्द्यः
अ प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने च् सद्माभि सत्यो अध्वरः
अ परि यत्काव्या कविर्नृम्णा पुनानो अर्षति च् स्वर्वाजी सिषासति
अ पवमानो अभि स्पृधो विशो राजेव सीदति च् यदीमृण्वन्ति वेधसः
अ अव्या वारे परि प्रियो हरिर्वनेषु सीदति च् रेभो वनुष्यते मति अ स वायुमिन्द्रमश्विना साकं मदेन गच्छति च् रणा यो अस्य धर्मणा
अ आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः च् विदाना अस्य शक्मभिः
अ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये च् श्रवो वसूनि सञ्जितम्
अ आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे च् पान्तमा पुरुस्पृहम्
अ आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् च् पान्तमा पुरुस्पृहम्
अ आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा च् पान्तमा पुरुस्पृहम्
अ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् च् कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः
अ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते च् तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः