भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः भद्रा उत प्रशस्तयः
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् अस्य यज्ञस्य सुक्रतुम्
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् मन्युं जनस्य दूढ्यम्
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे विश्वेदग्निः प्रति रक्षांसि सेधति
इत्याग्नेय पर्वं .. ऐन्द्र तद्वो गाय सुते सचा पुरुहूताय सत्वने शं यद्गवे न शाकिने
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः तेन नूनं मदे मदेः
गाव उप वदावटे महि यज्ञस्य रप्सुदा उभा कर्णा हिरण्यया
अरमश्वाय गायत श्रुतकक्षारं गवे अरमिन्द्रस्य धाम्ने
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे स वृषा वृषभो भुवत्
त्वमिन्द्र बलादधि सहसो जात ओजसः त्वं सन्वृषन्वृषेदसि
यज्ञ व्यवर्तयत् चक्राण ओपशं दिवि
यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् स्तोता मे गोसखा स्यात्
पन्यंपन्यमित्सोतार आ धावत मद्याय सोमं वीराय शूराय
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् अनाभयिन्ररिमा ते
उद्धेदभि श्रुतामघं वृषभं नर्यापसम् अस्तारमेषि सूर्य
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य सर्वं तदिन्द्र ते वशे
य आनयत्परावतः सुनीती तुर्वशं यदुम् इन्द्रः स नो युवा सखा
मा न इन्द्राभ्या ऽ ऽ दिशः सूरो अक्तुष्वा यमत त्वा युजा वनेम तत्
एन्द्र सानसिं रयिं सजित्वानं सदासहम् वर्षिष्ठमूतये भर
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे युजं वृत्रेषु वज्रिणम्
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे तत्राददिष्ट पौंस्यम्
वयमिन्द्र त्वायवो ऽभि प्र नोनुमो वृषन् विद्धी त्वास्य नो वसो
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् येषामिन्द्रो युवा सखा
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः वसु स्पार्हं तदा भर
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् नि यामं चित्रमृञ्जते
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः पुष्टावन्तो यथा पशुम्
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः समुद्रायेव सिन्धवः
देवानामिदवो महत्तदा वृणीमहे वयम् वृष्णामस्मभ्यमूतये
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः शृणोतु शक्र आशिषम्