अ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः च् पूर्वेण मघवन्पदा वयामजो यथा यमः ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
अ अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् च् अधस्पदं तमीं कृधि यो अस्मां अभिदासति ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
अ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् च् मदेषु सर्वधा असि
अ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः च् मदेषु सर्वधा असि
अ त्वे विश्वे सजोषसो देवासः पीतिमाशत च् मदेषु सर्वधा असि
अ स सुन्वे यो वसूनां यो रायामानेता य इडानाम् च् सोमो यः सुक्षितीनाम्
अ यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः च् आ येन मित्रावरुणा करामह एन्द्रमवसे महे
अ तं वः सखायो मदाय पुनानमभि गायत च् शिशुं न हव्यैः स्वदयन्त गूर्तिभिः
अ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते च् देवावीर्मदो मतिभिः परिष्कृतः
अ अयं दक्षाय साधनो ऽयं शर्धाय वीतये च् अयं देवेभ्यो मधुमत्तरः सुतः
अ सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः च् मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः
अ ते पूतासो विपश्चितः सोमासो दध्याशिरः च् सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते
अ सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि च् इषमस्मभ्यमभितः समस्वरन्वसुविदः
अ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व च् ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात्
अ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे च् षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय
अ महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे च् अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः
अ अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः
अ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः
अ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः
अ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः
अ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु
अ आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत्
अ प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते
अ अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः
अ उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र
चतुर्थ द्वितीयो ऽर्धः अ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति च् महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्
अ प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः च् आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम्
अ स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः च् परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः
अ प्र स्वानासो रथा इवार्वन्तो न अवस्यवः च् सोमासो राये अक्रमुः
अ हिन्वानासो रथा इव दधन्विरे गभस्त्योः च् भरासः कारिणामिव