अ यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति च् वसु स्पार्हं तदा भर
अ यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् च् वसु स्पार्हं तदा भर
अ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु च् इन्द्राग्नी तस्य बोधतम्
अ तोशासा रथयावाना वृत्रहणापराजिता च् इन्द्राग्नी तस्य बोधतम्
अ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः च् इन्द्राग्नी तस्य बोधतम्
अ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः च् अर्कस्य योनिमासदम्
अ तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् च् सं त्वा मृजन्त्यायवः
अ रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे च् पवमानस्य मरुतः
अ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि च् रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि
अ पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने च् देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि
अ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् च् समादित्येभिरख्यत
अ समिन्द्रेणोत वायुना सुत एति पवित्र आ च् सं सूर्यस्य रश्मिभिः
अ स नो भगाय वायवे पूष्णे पवस्व मधुमान् च् चारुर्मित्रे वरुणे च
अ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः च् क्षुमन्तो याभिर्मदेम
अ आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः च् ऋणोरक्षं न चक्र्योः
अ आ यद्दुवः शतक्रतवा कामं जरित्र्^ईणाम् च् ऋणोरक्षं न शचीभिः
अ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे च् जुहूमसि द्यविद्यवि
अ उप नः सवना गहि सोमस्य सोमपाः पिब च् गोदा इद्रेवतो मदः
अ अथा ते अन्तमानां विद्याम सुमतीनाम् च् मा नो अति ख्य आ गहि
अ उभे यदिन्द्र रोदसी आपप्राथोषा इव च् महान्तं त्वा महीनां सम्राजं चर्षणीनाम् ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
अ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः च् पूर्वेण मघवन्पदा वयामजो यथा यमः ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
अ अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् च् अधस्पदं तमीं कृधि यो अस्मां अभिदासति ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
अ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् च् मदेषु सर्वधा असि
अ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः च् मदेषु सर्वधा असि
अ त्वे विश्वे सजोषसो देवासः पीतिमाशत च् मदेषु सर्वधा असि
अ स सुन्वे यो वसूनां यो रायामानेता य इडानाम् च् सोमो यः सुक्षितीनाम्
अ यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः च् आ येन मित्रावरुणा करामह एन्द्रमवसे महे
अ तं वः सखायो मदाय पुनानमभि गायत च् शिशुं न हव्यैः स्वदयन्त गूर्तिभिः
अ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते च् देवावीर्मदो मतिभिः परिष्कृतः
अ अयं दक्षाय साधनो ऽयं शर्धाय वीतये च् अयं देवेभ्यो मधुमत्तरः सुतः