अ एते सोमा असृक्षत गृणानाः शवसे महे च् मदिन्तमस्य धारया
अ अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि च् सनद्वाजः परि स्रव
अ उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः च् गृणानो जमदग्निना
अ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया च् भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव
अ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् च् जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये म रिषामा वयं तव
अ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् च् त्वमादित्यां आ वह तान्ह्यूश्मस्यग्ने सख्ये मा रिषामा वयं तव
अ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् च् अर्यमणं रिशादसम्
अ राया हिरण्यया मतिरियमवृकाय शवसे च् इयं विप्रामेधसातये
अ ते स्याम देव वरुण ते मित्र सूरिभिः सह च् इषं स्वश्च धीमहि
अ भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः च् वसु स्पार्हं तदा भर
अ यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति च् वसु स्पार्हं तदा भर
अ यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् च् वसु स्पार्हं तदा भर
अ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु च् इन्द्राग्नी तस्य बोधतम्
अ तोशासा रथयावाना वृत्रहणापराजिता च् इन्द्राग्नी तस्य बोधतम्
अ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः च् इन्द्राग्नी तस्य बोधतम्
अ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः च् अर्कस्य योनिमासदम्
अ तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् च् सं त्वा मृजन्त्यायवः
अ रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे च् पवमानस्य मरुतः
अ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि च् रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि
अ पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने च् देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि
अ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् च् समादित्येभिरख्यत
अ समिन्द्रेणोत वायुना सुत एति पवित्र आ च् सं सूर्यस्य रश्मिभिः
अ स नो भगाय वायवे पूष्णे पवस्व मधुमान् च् चारुर्मित्रे वरुणे च
अ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः च् क्षुमन्तो याभिर्मदेम
अ आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः च् ऋणोरक्षं न चक्र्योः
अ आ यद्दुवः शतक्रतवा कामं जरित्र्^ईणाम् च् ऋणोरक्षं न शचीभिः
अ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे च् जुहूमसि द्यविद्यवि
अ उप नः सवना गहि सोमस्य सोमपाः पिब च् गोदा इद्रेवतो मदः
अ अथा ते अन्तमानां विद्याम सुमतीनाम् च् मा नो अति ख्य आ गहि
अ उभे यदिन्द्र रोदसी आपप्राथोषा इव च् महान्तं त्वा महीनां सम्राजं चर्षणीनाम् ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्