चतुर्थ प्रथमो ऽर्धः अ ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः च् दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः
अ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः च् हरिर्मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर्वृषा
अ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि च् अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे
अ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया च् शुक्रासो वीरयाशवः
अ शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः र्म् च् पवन्ते वारे अव्यये
अ ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा च् पवन्तामान्तरिक्ष्या
अ पवस्व देववीरति पवित्रं सोम रंह्या च् इन्द्रमिन्दो वृषा विश
अ आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः च् आ योनिं धर्णसिः सदः
अ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः च् अपो वसिष्ट सुक्रतुः
अ महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः च् यद्गोभिर्वासयिष्यसे
अ समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः च् सोमः पवित्रे अस्मयुः
अ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः च् सं सूर्येण दिद्युते
अ गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः च् याभिर्मदाय शुम्भसे
अ तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे च् तव प्रशस्तये महे
अ गोषा इन्दो नृषा अस्यश्वसा वाजसा उत च् आत्मा यज्ञस्य पूर्व्यः
अ अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया च् पर्जन्यो वृष्टिमां इव
अ सना च सोम जेषि च पवमान महि श्रवः च् अथा नो वस्यसस्कृधि
अ सना ज्योतिः सना स्वार्विश्वा च सोम सौभगा च् अथा नो वस्यसस्कृधि
अ सना दक्षमुत क्रतुमप सोम मृधो जहि च् अथा नो वस्यसस्कृधि
अ पवीतारः पुनीतन सोममिन्द्राय पातवे च् अथा नो वस्यसस्कृधि
अ त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः च् अथा नो वस्यसस्कृधि
अ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् च् अथा नो वस्यसस्कृधि
अ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् च् अथा नो वस्यसस्कृधि
अ अभ्यार्षानपच्युतो वाजिन्त्समत्सु सासहिः च् अथा नो वस्यसस्कृधि
अ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि च् अथा नो वस्यसस्कृधि
अ रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर च् अथा नो वस्यसस्कृधि
अ तरत्स मन्दी धावति धारा सुतस्यान्धसः च् तरत्स मन्दी धावति
अ उस्रा वेद वसूनां मर्त्तस्य देव्यवसः च् तरत्स मन्दी धावति
अ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे च् तरत्स मन्दी धावति
अ आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे च् तरत्स मन्दी धावति