अ युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती च् ईशाना पिप्यतं धियः
अ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः च् तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत्
अ असि हि वीर सेन्यो ऽसि भूरि पराददिः च् असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु
अ यदुदीरत आजयो धृष्णवे धीयते धनाम् च् युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः
अ स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः च् या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम्
अ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः च् प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्
अ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः च् व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम्
अ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः च् श्येनो न योनिमासदत्
अ शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् च् स्वदन्ति गावः पयोभिः
अ आदीमश्वं न हेतारमशूशुभन्नमृताय च् मधो रसं सधमादे
अ अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् च् वि कोशं मध्यमं युव
अ आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः च् वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः
अ प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् च् विश्वा परि प्रिया भुवदध द्विता
अ उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् च् यज्ञस्य सप्त धामभिरध प्रियम्
अ त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम् च् मिमीते अस्य योजना वि सुक्रतुः
अ पवस्व वाजसातये पवित्रे धारया सुतः च् इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः
अ त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः च् वत्सं जातं न मातरः पवमान विधर्मणि
अ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे च् प्रति द्रापिममुञ्चथाः पवमान महित्वना
अ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय च् हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा
अ अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः च् इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय
अ अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् च् इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये
अ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् च् युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर
अ आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते च् सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर
अ ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि च् उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर
अ इन्द्राय साम गायत विप्राय बृहते बृहत् च् ब्रह्माकृते विपश्चिते पनस्यवे
अ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः च् विश्वकर्मा विश्वदेवो महां असि
अ विभ्राजं ज्योतिषा त्वरगच्छो रोचनं दिवः च् देवास्त इन्द्र सख्याय येमिरे
अ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि च् आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः
अ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी च् अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना
अ इन्द्रमिद्धरी वहतो ऽप्रतिधृष्टशवसम् च् ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम्