नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः अमैरमित्रमर्दय
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् यजिष्ठमृञ्जसे गिरा
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः वायोरनीके अस्थिरन्
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् नमो भरन्त एमसि
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय स्तोमं रुद्राय दृशीकम्
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे मरुद्भिरग्न आ गहि
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः सम्राजन्तमध्वराणाम्
और्वभृगुवच्छुचिमप्नवानवदा हुवे अग्निं समुद्रवाससम्
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः अग्निमिन्धे विवस्वभिः
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् परो यदिध्यते दिवि
अग्निं वो वृधन्तमध्वराणां पुरूतमम् अच्छा नप्त्रे सहस्वते
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्यात्रिणम् अग्निर्नो वंसते रयिम्
अग्ने मृड महां अस्यय आ देवयुं जनम् इयेथ बर्हिरासदम्
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः तपिष्ठैरजरो दह
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः अरं वहन्त्याशवः
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् सुवीरमग्न आहुत
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वति
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् अग्ने देवेषु प्र वोचः
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः स पावक श्रुधी हवम्
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् दधद्रत्नानि दाशुषे
उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम्
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे देवममीवचातनम्
शं नो देवीरभिष्टये शं नो भवन्तु पीतये शं योरभि स्रवन्तु नः
कस्य नूनं परीणसि धियो जिन्वसि सत्पते जोषाता यस्य ते गिरः
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्
पाहि नो अग्न एकया पाह्यूत द्वितीयया पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम्
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः