अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि
त्वमग्ने यज्ञानां होता विश्वेषां हितः देवेभिर्मानुषे जने
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम्
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया समिद्धः शुक्र आहुतः
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् अग्ने रथं न वेद्यम्
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः उत द्विषो मर्त्यस्य
एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः एभिर्वर्धास इन्दुभिः
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् अग्ने त्वां कामये गिरा
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत मूर्ध्नो विश्वस्य वाघतः
अग्ने विवस्वदा भरास्मभ्यमूतये महे देवो ह्यसि नो दृशे
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः अमैरमित्रमर्दय
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् यजिष्ठमृञ्जसे गिरा
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः वायोरनीके अस्थिरन्
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् नमो भरन्त एमसि
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय स्तोमं रुद्राय दृशीकम्
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे मरुद्भिरग्न आ गहि
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः सम्राजन्तमध्वराणाम्
और्वभृगुवच्छुचिमप्नवानवदा हुवे अग्निं समुद्रवाससम्
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः अग्निमिन्धे विवस्वभिः
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् परो यदिध्यते दिवि
अग्निं वो वृधन्तमध्वराणां पुरूतमम् अच्छा नप्त्रे सहस्वते
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्यात्रिणम् अग्निर्नो वंसते रयिम्
अग्ने मृड महां अस्यय आ देवयुं जनम् इयेथ बर्हिरासदम्
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः तपिष्ठैरजरो दह
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः अरं वहन्त्याशवः
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् सुवीरमग्न आहुत
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वति
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् अग्ने देवेषु प्र वोचः
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः स पावक श्रुधी हवम्
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् दधद्रत्नानि दाशुषे