एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् । स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः
इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे
भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे
आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः । यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे
इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः । यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे
इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः । यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे
न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे
अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः । ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे
ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत । स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे
ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे
क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् । पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे
चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः
उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः
मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात्
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
निराहावान्कृणोतन सं वरत्रा दधातन । सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम्
इष्कृताहावमवतं सुवरत्रं सुषेचनम् । उद्रिणं सिञ्चे अक्षितम्
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् । द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम्
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम्
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह । सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः
आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त
उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः । वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम्
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया । अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव
उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् । रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना
अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः । दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम्
उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति । प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन्
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः । तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय