कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते । ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः । मित्रो न यो जनेष्वा यशश्चक्रे असाम्या
महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः । भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम्
युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः
त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै । ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः
अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम्
आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् । तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम्
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः । त्वं तस्यामित्रहन्वधर्दासस्य दम्भय
त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा । पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा
त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः । गुहा यदी कवीनां विशां नक्षत्रशवसाम्
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः । वयंवयं त आसां सुम्ने स्याम वज्रिवः
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः । विद्याम यासां भुजो धेनूनां न वज्रिवः
अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः
पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् । उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा
हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित्
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम्
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः
स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे । विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे
माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः । विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि
इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् । अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे
त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे । शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे
यस्पतिर्वार्याणामसि रध्रस्य चोदिता । इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे
युवं शक्रा मायाविना समीची निरमन्थतम् । विमदेन यदीळिता नासत्या निरमन्थतम्
विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः । नासत्यावब्रुवन्देवाः पुनरा वहतादिति
मधुमन्मे परायणं मधुमत्पुनरायनम् । ता नो देवा देवतया युवं मधुमतस्कृतम्
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे
हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे