उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र
उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु
प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः । प्रतीचीं जग्रभा वाचमश्वं रशनया यथा
नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः । अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम्
पुनरेना नि वर्तय पुनरेना न्या कुरु । इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु
पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ । इहैवाग्ने नि धारयेह तिष्ठतु या रयिः
यन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे
य उदानड्व्ययनं य उदानट् परायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम्
आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि । जीवाभिर्भुनजामहै
परि वो विश्वतो दध ऊर्जा घृतेन पयसा । ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः
आ निवर्तन वर्तय नि निवर्तन वर्तय । भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय
भद्रं नो अपि वातय मनः
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः
यमासा कृपनीळं भासाकेतुं वर्धयन्ति । भ्राजते श्रेणिदन्
अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् । कविरभ्रं दीद्यानः
जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे । मिन्वन्सद्म पुर एति
स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति । अग्निं देवा वाशीमन्तम्
यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य । अद्रेः सूनुमायुमाहुः
नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः । अग्निं हविषा वर्धन्तः
कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । हिरण्यरूपं जनिता जजान
एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः । गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे
त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः । वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे
त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव । कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य । तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे
अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या । भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे
त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे । त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे
त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे । घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे
अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे