क्रव्यादम् अग्निम् प्र हिणोमि दूरꣳ यमराज्ञो गच्छतु रिप्रवाहः । इहैवायम् इतरो जातवेदा देवेभ्यो हव्यꣳ वहतु प्रजानन्
यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरꣳ जातवेदसम् । तꣳ हरामि पितृयज्ञाय देवꣳ स घर्मम् इन्वात् परमे सधस्थे
यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे
यꣳ त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा
शीतिके शीतिकावति ह्लादिके ह्लादिकावति । मण्डूक्या३ सु सꣳ गम इमꣳ स्व् अ१ग्निꣳ हर्षय
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः
आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन्
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात्
सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि
द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः
यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम्
यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा । अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे
पयस्वतीरोषधयः पयस्वन्मामकं वचः । अपां पयस्वदित्पयस्तेन मा सह शुन्धत
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान्
मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन
यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु । यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम्
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ
धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात्