इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः । पवस्व मधुमत्तमः
इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः । जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय
इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व
पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः
नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित्
इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः
पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय
तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय
बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान
पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य
प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः
असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः
अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय
देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति
इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईयसे
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्र गाहसे
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । गोजीरया रंहमाणः पुरंध्या
अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत्
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । वारं न देवः सविता व्यूर्णुते