अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुꣳ रिहन्ति मधुनाभ्य् अञ्जते । सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणꣳ हिरण्यपावाः पशुम् आसु गृभ्णते
विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः
अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः
असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । अꣳशुꣳ रिहन्ति मतयः पनिप्नतꣳ गिरा यदि निर्णिजम् ऋग्मिणो ययुः
प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य सꣳयतो यन्ति रꣳहयः । यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि
पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति
स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्
एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्
एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः
परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः । अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष
एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा । तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा
एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद । दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा
उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः । पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत्
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्
स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त
वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः । विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् । पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः
अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम्
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन्
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम
प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः । सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः
राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् । अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम्
सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा
* मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् । स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति
चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः । ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः
विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय
वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व । शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम