वाचो जन्तुः कवीनां पवस्व सोम धारया । देवेषु रत्नधा असि
आ कलशेषु धावति श्येनो वर्म वि गाहते । अभि द्रोणा कनिक्रदत्
परि प्र सोम ते रसोऽसर्जि कलशे सुतः । श्येनो न तक्तो अर्षति
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः
असृग्रन्देववीतये वाजयन्तो रथा इव
ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम्
एष तुन्नो अभिष्टुतः पवित्रमति गाहते । रक्षोहा वारमव्ययम्
यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वि तज्जहि
पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्मसवैः पुनीहि नः
उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः
त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः । देवेभ्य उत्तमं हविः
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । अगन्म बिभ्रतो नमः
अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम । आखुं चिदेव देव सोम
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् । सर्वं स पूतमश्नाति स्वदितं मातरिश्वना
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् । तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे
स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः । तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम्
वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता । मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे
स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् । अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः
सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः । यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम्
मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः । तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम्
त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् । अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये
परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः । यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः
अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति । अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम्
एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्