स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः । इन्दुरत्यो विचक्षणः
पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् । कृष्णा तमांसि जङ्घनत्
पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत । जीरा अजिरशोचिषः
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः
पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः । दधत्स्तोत्रे सुवीर्यम्
प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् । पुनान इन्दुरिन्द्रमा
एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः । इन्द्रं मदाय जोहुवत्
यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः । तेन नो मृळ जीवसे
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मंहयद्रयिः
त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः । इन्द्राय सूरिरन्धसा
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तं शुष्ममुत्तमम्
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया । हरिर्वाजमचिक्रदत्
इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा । वि वाजान्सोम गोमतः
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् । भरा सोम सहस्रिणम्
पवमानास इन्दवस्तिरः पवित्रमाशवः । इन्द्रं यामेभिराशत
ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः । आयुः पवत आयवे
हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् । अभि गिरा समस्वरन्
अविता नो अजाश्वः पूषा यामनियामनि । आ भक्षत्कन्यासु नः
अयं सोमः कपर्दिने घृतं न पवते मधु । आ भक्षत्कन्यासु नः
अयं त आघृणे सुतो घृतं न पवते शुचि । आ भक्षत्कन्यासु नः
वाचो जन्तुः कवीनां पवस्व सोम धारया । देवेषु रत्नधा असि
आ कलशेषु धावति श्येनो वर्म वि गाहते । अभि द्रोणा कनिक्रदत्
परि प्र सोम ते रसोऽसर्जि कलशे सुतः । श्येनो न तक्तो अर्षति
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः
असृग्रन्देववीतये वाजयन्तो रथा इव
ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम्
एष तुन्नो अभिष्टुतः पवित्रमति गाहते । रक्षोहा वारमव्ययम्
यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वि तज्जहि
पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः