तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । सं त्वा मृजन्त्यायवः
रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । पवमानस्य मरुतः
त्वं सोम विपश्चितं पुनानो वाचमिष्यसि । इन्दो सहस्रभर्णसम्
उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । पुनान इन्दवा भर
पुनान इन्दवेषां पुरुहूत जनानाम् । प्रियः समुद्रमा विश
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः
हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा
ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः । पवस्व सूर्यो दृशे
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । महामिन्दुं महीयुवः
पवमान रुचारुचा देवो देवेभ्यस्परि । विश्वा वसून्या विश
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । इषे पवस्व संयतम्
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । पवमान स्वाध्यः
आ पवस्व सुवीर्यं मन्दमानः स्वायुध । इहो ष्विन्दवा गहि
यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । द्रुणा सधस्थमश्नुषे
प्र सोमाय व्यश्ववत्पवमानाय गायत । महे सहस्रचक्षसे
यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये
तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । सखित्वमा वृणीमहे
वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा
तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् । हिन्वे वाजेषु वाजिनम्
अया चित्तो विपानया हरिः पवस्व धारया । युजं वाजेषु चोदय
आ न इन्दो महीमिषं पवस्व विश्वदर्शतः । अस्मभ्यं सोम गातुवित्
आ कलशा अनूषतेन्दो धाराभिरोजसा । एन्द्रस्य पीतये विश
यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः । स पवस्वाभिमातिहा
राजा मेधाभिरीयते पवमानो मनावधि । अन्तरिक्षेण यातवे
आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् । वहा भगत्तिमूतये
आ नः सोम सहो जुवो रूपं न वर्चसे भर । सुष्वाणो देववीतये
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदञ्छ्येनो न योनिमा
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमो अर्षति विष्णवे
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः । आ पवस्व सहस्रिणम्
ये सोमासः परावति ये अर्वावति सुन्विरे । ये वादः शर्यणावति