सुवीरासो वयं धना जयेम सोम मीढ्वः । पुनानो वर्ध नो गिरः
त्वोतासस्तवावसा स्याम वन्वन्त आमुरः । सोम व्रतेषु जागृहि
अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम्
महो नो राय आ भर पवमान जही मृधः । रास्वेन्दो वीरवद्यशः
न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् । यत्पुनानो मखस्यसे
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि
अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । सासह्याम पृतन्यतः
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे । रक्षा समस्य नो निदः
एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभि सौभगा
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । तना कृण्वन्तो अर्वते
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इळामस्मभ्यं संयतम्
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत्
शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः । स्वदन्ति गावः पयोभिः
आदीमश्वं न हेतारोऽशूशुभन्नमृताय । मध्वो रसं सधमादे
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । ताभिः पवित्रमासदः
सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया । सीदन्योना वनेष्वा
त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । वरिवोविद्घृतं पयः
अयं विचर्षणिर्हितः पवमानः स चेतति । हिन्वान आप्यं बृहत्
एष वृषा वृषव्रतः पवमानो अशस्तिहा । करद्वसूनि दाशुषे
आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् । पुरुश्चन्द्रं पुरुस्पृहम्
एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । उरुगायः कविक्रतुः
सहस्रोतिः शतामघो विमानो रजसः कविः । इन्द्राय पवते मदः
गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते । विर्योना वसताविव
पवमानः सुतो नृभिः सोमो वाजमिवासरत् । चमूषु शक्मनासदम्
तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । ऋषीणां सप्त धीतिभिः
तं सोतारो धनस्पृतमाशुं वाजाय यातवे । हरिं हिनोत वाजिनम्
आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः । शूरो न गोषु तिष्ठति
आ त इन्दो मदाय कं पयो दुहन्त्यायवः । देवा देवेभ्यो मधु
आ नः सोमं पवित्र आ सृजता मधुमत्तमम् । देवेभ्यो देवश्रुत्तमम्
एते सोमा असृक्षत गृणानाः श्रवसे महे । मदिन्तमस्य धारया