अभि त्वा योषणो दश जारं न कन्यानूषत । मृज्यसे सोम सातये
त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव । नॄन्स्तोतॄन्पाह्यंहसः
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम्
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा
स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति
स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति
उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम्॥ ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप॥स्कन्दपु. [https://sa.wikisource.org/s/fr9 ६.२६८.३०]॥उस्रा वेद वसूनां मर्तस्य देव्यवसः । तरत्स मन्दी धावति
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति
पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् । प्रजावद्रत्नमा भर
पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । पवस्व धिषणाभ्यः
त्वं सोम पवमानो विश्वानि दुरिता तर । कविः सीद नि बर्हिषि
पवमान स्वर्विदो जायमानोऽभवो महान् । इन्दो विश्वाँ अभीदसि
प्र गायत्रेण गायत पवमानं विचर्षणिम् । इन्दुं सहस्रचक्षसम्
तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् । अति वारमपाविषुः
अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति । इन्द्रस्य हार्द्याविशन्
इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे । प्रजावद्रेत आ भर
अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम्
परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिषः
पवमानस्य ते वयं पवित्रमभ्युन्दतः । सखित्वमा वृणीमहे
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिर्नः सोम मृळय
स नः पुनान आ भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । समादित्येभिरख्यत
समिन्द्रेणोत वायुना सुत एति पवित्र आ । सं सूर्यस्य रश्मिभिः
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर्मित्रे वरुणे च
उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे । उग्रं शर्म महि श्रवः
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परि स्रव