अभ्यर्ष विचक्षण पवित्रं धारया सुतः । अभि वाजमुत श्रवः
परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा । सुवानो अर्ष पवित्र आ
तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः । सहस्रधारो यात्तना
चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय । वधैर्वधस्नवीङ्खय
नि शुष्ममिन्दवेषां पुरुहूत जनानाम् । यो अस्माँ आदिदेशति
शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । पवस्व मंहयद्रयिः
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः
अया निजघ्निरोजसा रथसंगे धने हिते । स्तवा अबिभ्युषा हृदा
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । रुज यस्त्वा पृतन्यति
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम्
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम्
अयं सूर्य इवोपदृगयं सरांसि धावति । सप्त प्रवत आ दिवम्
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । सोमो देवो न सूर्यः
परि णो देववीतये वाजाँ अर्षसि गोमतः । पुनान इन्दविन्द्रयुः
यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव । सोम विश्वा च सौभगा
इन्दो यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः
उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः
यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित्
परि सोम ऋतं बृहदाशुः पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः
यत्सोमो वाजमर्षति शतं धारा अपस्युवः । इन्द्रस्य सख्यमाविशन्
अभि त्वा योषणो दश जारं न कन्यानूषत । मृज्यसे सोम सातये
त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव । नॄन्स्तोतॄन्पाह्यंहसः
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम्
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा
स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति
स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति
उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम्॥ ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप॥स्कन्दपु. [https://sa.wikisource.org/s/fr9 ६.२६८.३०]॥उस्रा वेद वसूनां मर्तस्य देव्यवसः । तरत्स मन्दी धावति
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति