असृग्रन्देववीतयेऽत्यासः कृत्व्या इव । क्षरन्तः पर्वतावृधः
परिष्कृतास इन्दवो योषेव पित्र्यावती । वायुं सोमा असृक्षत
एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः
आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । गोभिः श्रीणीत मत्सरम्
स पवस्व धनꣳजय प्रयन्ता राधसो महः । अस्मभ्यꣳ सोम गातुवित्
एतम् मृजन्ति मर्ज्यम् पवमानꣳ दश क्षिपः । इन्द्राय मत्सरम् मदम्
अया सोमः सुकृत्यया महश्चिदभ्यवर्धत । मन्दान उद्वृषायते
कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा । ऋणा च धृष्णुश्चयते
आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । उक्थं यदस्य जायते
स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति । यदी मर्मृज्यते धियः
सिषासतू रयीणां वाजेष्वर्वतामिव । भरेषु जिग्युषामसि
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । चारुं सुकृत्ययेमहे
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । शतं पुरो रुरुक्षणिम्
अतस्त्वा रयिमभि राजानं सुक्रतो दिवः । सुपर्णो अव्यथिर्भरत्
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् । गोपामृतस्य विर्भरत्
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । अभिष्टिकृद्विचर्षणिः
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिषः
तया पवस्व धारया यया गाव इहागमन् । जन्यास उप नो गृहम्
घृतं पवस्व धारया यज्ञेषु देववीतमः । अस्मभ्यं वृष्टिमा पव
स न ऊर्जे व्यव्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम्
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुचः
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । वाणस्य चोदया पविम्
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि
अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः । पवमानं मधुश्चुतम्
आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम्
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः । इन्दविन्द्राय पीतये
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज । पुनीहीन्द्राय पातवे
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम्
तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते । पवमानस्य मरुतः
त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये । वृषन्स्तोतारमूतये